OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, March 23, 2018

केन्द्रसर्वकारस्य स्खाल्त्यनिवारणम्। मृतानां भटानां पुत्राणां अध्ययनं मुक्तरूपेण प्रचलति। 
     नवदेहली->वीरमृत्यु वृतानां सैनिकानां दीयमानस्य छात्रवृत्तेः परिधिः सर्वकारेण निष्कासितः। गतवर्षे छात्रवृत्तेः परिधिः १०००० रूप्यकत्वेन सर्वकारेण निश्चितः। सेनाविभागेभ्यः बहु प्रतिषेधे आगते सति पूर्वनिश्चितं सर्वकारेण पुनर्निरीक्ष्य शिक्षाव्ययः पूर्णतया निर्वोढुं सन्नद्धः इति निर्णीतम्। बंग्लादेश युद्धानन्तरं १९७१ तमे वर्षे पद्धतिरियं प्रारब्धा। गतवर्षपर्यन्तं २६८९ छात्रेभ्यः अस्य सौविध्यं अलभत।किन्तु २०१७ जुलाई मासे छात्रवृत्तिः दशसहस्ररुप्यकमेव अधिकाधिकं स्यादिति सर्वकारेण उद्घोषितम्।तेन सर्वकारस्य ३.२ कोटि रूप्यकाणां गुणः जातः।नाविकसेनायाः नेता अड्मिरल् सुनिल् लांबा तदर्थं प्रतिरोधमन्त्रिणे निर्मला सीतारामाय पत्रं अलिखत्।बहु प्रतिषेधानां अन्ते सर्वकारेण निर्णयमिदं पुनर्निश्चितम्।