OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 1, 2018

पलास्तिक निर्माणकेन्द्रे अग्निबाधा - समीपदेशेऽपि जाग्रतानिर्देशः।
           तिरुवनन्तपुरम्> मण्विलादेशे पलास्तिक निर्माणकेन्द्रे अग्निबाधा अभवत्I जीवहानिः नास्ति चेदपि विषधूमपटलः सर्वत्रप्रसरति। अतः समीपप्रदेशेषु जाग्रतानिर्देशः ख्यापितः। पलास्तिकानां ज्वलनेन कार्बण् मोणोक्सैड्, कार्बण् डै ओक्सैड्, सल्फर् डै ओक्सैड्‌ वातानां प्रसरणेन अन्तरिक्षे प्राणवायोः अभावः अस्ति। अतः प्रदेशवासिनः ततः गच्छेयुः इति जनपदाधिकारिणा जनाः निर्दिष्टाः।
          शिशून्, घासेन पीडितान् च सन्दर्भेस्मिन् सम्यग्‌ पालनीयाः। विषवातः अधिकतया अन्तरिक्षे प्रसृताः। सप्ताहपर्यन्तं प्रदेशे विषधूमस्य प्रभावः भविष्यति। सस्य श्वसनेन स्वास्थ्यहानिः भविष्यति इति  स्वास्थ्यकलाशालायाः आतुरालयस्य उपावेक्षकेन वैद्यकेन सन्तोष् महाशयेनोक्तम्। त्वरितावस्था पालनाय चिकित्सालये सुविधा सुसज्जा अस्ति इत्यपि तेनोक्तम्।