OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 19, 2018

अमृतसरसि स्फोटकवस्त्वाक्रमणं - त्रयः मृताः। 
  अमृतसरः>   पञ्चाबराज्यस्य राजधानीसमीपं अदलिवाल् ग्रामे निरन्कारी भवने 'ग्रनेड्' नामकेन स्फोटकायुधाक्रमणेन त्रयः जनाः मृत्युमुपगताः। अनेके व्रणिताश्च। रविवासरे प्रभाते द्विचक्रिकया प्राप्तवन्तौ द्वावज्ञातौ निरन्कारिभवने सम्मिलितान् जनान् लक्षीकृत्य ग्रनेडविक्षेपणं कृतवन्तौ। एतौ ग्रहीतुं यत्नः पुरोगच्छति। 
   अनया घटनया पञ्चाबराज्ये सर्वत्र तथा दिल्ल्यां  च अतीव जाग्रता प्रख्यापिता। राज्ये भीकराक्रमणस्य साध्यता दक्षसंस्थया निवेदिता आसीत्।