OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 20, 2018

भुवनप्रचोदिकासु शतं महिलासु तिस्रः भारतीयाः। 
पि. विजी

   लण्टन्   >   ‍आगोलवृत्तान्तमाध्यमनियोजकेन 'बि बि सी' नामकेन चितासु  लोकोत्तरप्रतिभाधनासु विश्वमार्गप्रदीपिकासु  महिलासु  तिस्रः  भारतीयवनिताः अन्तर्भूताः। 'मी टू' आन्दोलनादारभ्य  उत्तरायर्लान्ट् देशे गर्भच्छिद्रान्दोलनपर्यन्तं कार्यकर्तृत्वम् ऊढ्वा आविश्वम् आदर्शभूताः अन्येभ्यः अपि प्रचोददायिकाः शतं वनिताः बि बि  सि संस्थया निर्णीतायामस्यां पट्टिकायां  सन्ति।

    तासु भारतस्य मुखश्रियः तिस्रः - महाराष्ट्रस्य 'बीजमाता' इति प्रसिद्धा राहिबायी  सोमा पोपेरा  ,  वंगस्य उद्योगिनी मीना  गायेन्  ,  उपवेशनान्दोलनस्य नेत्री केरलीया पि . विजी [विजी पेण्कूट्ट्] -  भारतवीरवनिताः भवन्ति। 
  ६० राष्ट्राणां राजनैतिक - कला - उद्योगमण्डलेषु व्यक्तिमुद्राम् आलेखितवत्येभ्यः वनिताप्रतिभेभ्यः एव बि बि सी संस्थया एताः  चिताः।  १५ वयः आरभ्य ९४ वयः पर्यन्तं वर्तमानाः अस्यां पट्टिकायां विद्यन्ते।  पट्टिकायां ३३तम नामिका मीना गायेन् वंगराज्ये सुन्दरबन् प्रदेशेषु १० किमी दीर्घात्मकं मार्गं निरमयत्। प्रकृतिक्षोभान् प्रतिरोद्धुं शक्तिमन्तः आसन्  एते  मार्गाः।  एभिः स्वग्रामं प्रति अधिकाः सुविधाः आनेतुं कारणमभवत्।  
  ५५ वयस्का राहीबायी महाराष्ट्रस्य अहम्मदनगर् स्वदेशिनी तथा कृषका च भवति। भारते 'बीजबैंक्' [बीजागारः] इति अभियोजनायाः स्थापका च भवति। तद्देशीयबीजाधिकरणानां संरक्षणाय कार्षिकमण्डलस्य च अभिवृद्धये स्वजीवनं समर्पितवती एषा। केरलीया पि. विजी नामिका स्त्रीभ्यः बहूनाम्  अधिकारान्दोलनानां सूत्रधारिणी अस्ति।  वस्त्रशालासु  महिलानाम्  उपवेशसुविधायै 'पेण्कूट्ट्' [स्त्रीसुहृत्संघः] इति संघटनस्य नेतृत्वे अनया कृतम्  आन्दोलनं प्रधान्यमर्हति। तत्फलेन केरलराज्ये नूतनः नियमः अपि आविष्कृतः।