OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 10, 2018

कर्मराहित्यमानं संवत्सरद्वयस्य उच्चतमस्तरे।
   नवदिल्ली  >  भारते कर्मराहित्यं संवत्सरद्वयस्य उच्चतमस्तरं प्राप्तम्। भारतीय आर्थिकोपदेशकेन्द्रेण   [Center for Monitoring Indian Economy] प्रकाशितम् आवेदनपत्रमनुसृत्य २०१८ ओक्टोबर् मासे भारतस्य कर्मराहित्यमानं प्रतिशतं ६.९ अस्ति। गतवर्षे एतत् ६.७५% आसीत्।
   २०१८ ओक्टोबर् मासस्य गणनामनुसृत्य राष्ट्रे कर्मकराणां संख्या ३९.७ कोटिपरिमितमिति निर्णीतमस्ति। किन्तु गतवर्षस्य अस्मिन्नेव समये एषा संख्या ४०.७ कोटि परिमितम् आसीत्।  प्रतिशतं २.४ परिमितस्य न्यूनता जाता। संवत्सरद्वयपूर्वस्य मुद्रानिरासस्य अनन्तरफलमिति आवेदनपत्रे विशकलनं क्रियते।