OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 26, 2018

पादत्राणस्य अनुमार्जनं कृत्वा, पादरक्षां वितीर्य च मध्य प्रदेशस्य स्थानाशिनःI
    भोपालः > सम्मतिदायकान् गोण्यवरोहणं कर्तुं नूतनचेष्टितेन सह स्थानाशिनः। नूतन 'राष्ट्रिय आम् जन् दल'स्य शरत् सिङ् कुमारः भवति एवं सम्मतिदायकान् आकर्षति। तस्य निर्वाचन चिह्नमपि पादत्राणमेव। अक्षिसात् कृतानां पादत्राणम् अनुमार्जनं कृत्वा एव सम्मतिदानाभ्यर्थना। स्वस्य चिह्नं निर्वाचने अनुग्रहमानयिष्यति इति तस्य विश्वासः अस्तीति माध्यमान् प्रति सः अवदत्।
   शरतं विहाय स्वतन्त्रस्थानाशी अकुल हनुमन्तः च नूतन चेष्टितेन विहरन् अस्ति। तस्यापि अन्यतरा पादरक्षा भवति निर्वाचनचिह्नम्। सः सर्वेषां कृते पादराक्षां वितीर्य सम्मतिदानाय समभ्यर्थ्यते।
नवंबर् २८ तमे दिनाङ्के भवति मध्यप्रदेशस्य नियमसभानिर्वाचनम्। डिसम्बर् मासस्य ११ दिनाङ्के निर्वाचनस्य फलं प्रकाशयिष्यति।