OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 27, 2018

विद्यालयस्यूतस्य भारः न्यूनीकर्तुं निर्णयः स्वीकृतः।
      नवदिल्ली> छात्राणां स्वास्थ्यहानिकरस्य विद्यालयस्यूतस्य भारः न्यूनीकर्तुं केन्द्रसर्वकारेण निश्चितम्। प्रथम द्वितीय कक्ष्ययोः छात्राणां स्यूतभारः सार्धैक'किलो'परिमितः भवेत्। इति मानवसंसाधन-मन्त्रालयेन निर्दिष्टः। अस्यानुबन्धतया चाक्रिकादेशः सर्वेभ्यः राज्येभ्यः केन्द्रशासित-प्रदेशेभ्यः च प्रेषितःI पञ्चमकक्ष्यापर्यन्तेभ्यः स्यूतस्य भारः किलोत्रय परिमितं भवेत्। सप्तमपर्यन्तेभ्यः चत्वारः नवमकक्ष्याछात्रेभ्यः सार्धचत्वारः, दशमकक्ष्या छात्रेभ्यः पञ्च किलोपरिमितं च भवेत् स्यूतस्य भारः इत्यस्ति सर्वकारादेशः। एतत् विहाय प्रथम द्वितीय कक्ष्ययोः भाषाम् अतिरिच्य गणितमेव अध्यापनीयम्। गृहपाठः मा ददातु। तृतीयादारभ्य पञ्चम पर्यन्त कक्ष्यासु परिस्थितिपाठः अपि भवितव्यम्। एन् सि आर् टि सि संस्थया निर्दिष्टानि पुस्तकानि एव अध्यापानीयानि।