OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 9, 2018

'मृत्युः सुनिश्चितः,  किन्तु अन्तिमः सैनिकः अपि पाकिस्थानं प्रति युद्धं करिष्यति।'  प्रथम परमवीरचक्रजेतृणे राष्ट्रस्य प्रणामम् । 
-विशेषावेदनम्
    "पाकिस्थानस्य सेना अस्माकं समीपम् आगच्छति, मृत्युः सुनिश्चितः, किन्तु अस्मकं सैनिकेषु कोऽपि न प्रतिनिवर्तति। अन्तिमः सैनिकः अपि पाकिस्थानं प्रति युद्धं करिष्यति।" वीर मृत्यु स्वीकारात् पूर्वं 'मेजर् (विभाग नायकः) सोमनाथ शर्माणा स्वस्य उन्नताधिकारिणे प्रेषितः सन्देशः भवति अयम्। तस्य दृढनिश्चयस्य पुरतः, शक्तेः पुरतः भारतम् प्रणामम् अर्पयति।
     स्वतन्त्रताप्राप्त्यनन्तरं मासत्रयाभ्यन्तरे श्रीनगरविमाननिलयम् आक्रमितुम् उद्युक्तान् पाक् तीव्रवादिनः निवारणावसरे १९४७ तमे आसीत् तस्य वीरमृत्युःI पाक् सेना, तीव्रवादिनः च मिलित्वा उपसहस्रं युयुत्सवः एव विमाननिलयम् आक्रमितुम् आगताः। श्रीनगर विमान निलयस्य नष्टेन काश्मीरस्य नष्टः भविष्यति इति ज्ञातवान् सः युद्धमुखं प्रविश्य शत्रूणां मध्ये महानाशं वितरितवान्। पाकिस्थानस्य पुरतः स्वस्य राष्ट्रस्य मस्तकं कदापिऽ नम्रं मा भवतु इत्यासीत् तस्य अभिलाषः।  युद्धान्ते शत्रूणां महागोलिकाक्रमणेन सः हतवान् ।
     १९५० तमे भारतेन परमवीर-चक्रपुरस्कारेण सः  समादृतवान्।  तस्य बलिदान-दिनत्वेन नवंबर् मासस्य तृतीयदिनाङ्कः स्मर्यते। भारतसेनया दिनमिदं 'बड्गां' दिन्त्वेन समाचरते। तस्य दीप्तस्मृतौ बृहत्तमा नतिः।