OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 20, 2018

शबरिगिरि युवतीप्रवेशः  -  देवस्वं संस्थया कालविलम्बयाचिका समर्पिता। 
  नवदिल्ली  >  शबरिगिरीशमन्दिरे वयोभेदं विना स्त्रीप्रवेशं विधातुम् अधिकं कालमभियाच्य 'तिरुवितांकूर् देवस्वं बोर्ड्' संस्थया सर्वोच्चन्यायालये अभियाचिका समर्पिता। विधिं विधातुं यावच्छक्यं प्रयतते तथापि केचित् प्रायोगिकक्लेशाः अभिमुखीक्रियन्ते इति याचिकायां संसूच्यते। 
   प्रलयेन पम्पातीरं नाशितम् इत्यतः तीर्थाटकेभ्यः आधारसुविधानाम् अभावं, सामाजिकशान्तिकार्ये वर्तमानां अस्वस्थतां च सूचयित्वा एव देवस्वं बोर्ड् संस्था सर्वोच्चनीतिपीठम् उपागच्छत्।