OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 7, 2018

'चित्रा आट्टविशेषपूजा'  समाप्ता।
शबरीशमन्दिरं पिहितम् ; मण्डलोत्सवाय नवंबर. १६ तमे पुनरुद्घाट्यते। 
  शबरिगिरिः  >  सङ्घर्षभरितानां होराणां मध्ये एकदिनात्मिकां चित्रा आट्टविशेषपूजां समापयित्वा शबरिगिरीशमन्दिरं ह्यः रात्रौ 'हरिवरासन'गानालापनेन पिहितम्। तिरुवितांकूर् देशस्य महाराजत्वेन प्रशोभितस्य 'श्री चित्रा तिरुन्नाल् बालरामवर्मा' नामकस्य जन्मनक्षत्रसम्बन्धी पूजा भवत्येषा। 
   सन्निधानं प्रति युवतीप्रवेशं निरोद्धुं सहस्रशानां विश्वासिजनानां प्रतिषेधनामजपैः मुखरितमासन् पम्पा  सन्निधानादयः मन्दिरपरिसरप्रदेशाः। असाधारणः जनसम्मर्दः अन्वभवत्। सर्वोच्चन्यायालयस्य विधिमनुसृत्य दर्शनार्थम् आगच्छन्तीनां महिलानां संरक्षणाय सुविधाप्रदानाय च २५०० अधिकाः रक्षिपुरुषाश्च एषु प्रदेशेषु विन्यस्यन्ते स्म।  
   अस्य संवत्सरस्य मण्डलोत्सवकालः नवं. २७ [वृश्चिकमासस्य प्रथमं दिनम्] दिनाङ्कादारभ्य डिसं. २७ पर्यन्तमस्ति। तदर्थं मन्दिरं नवं. १६ सायं उद्घाटयिष्यति। नूतनेन चितानां मुख्यार्चकानाम् अवरोधनकार्यक्रमाणि तद्दिने भविष्यन्ति। ते एव परेद्युः आरभ्य  पूजादिकं निर्वक्ष्यन्ति।