अमृतसरसि आक्रमणकारिभिः उपयुक्तः विस्फोटकः पाकिस्थाने निर्मितम्। 
अत्याचारस्य पृष्टतः ऐ एस् ऐ - मुख्यमन्त्री अमरीन्द्रसिंहः।
|  | 
| चित्रग्रहणं ANI | 
   चण्डीगढः > अमृतसरसः प्रार्थनालये दुरापन्नस्य विस्फोटकाक्रमणस्य पृष्टतः पाकिस्थानस्य चारसंघटना ऐ एस् ऐ इति पञ्चाबस्य मुख्यमन्त्री अमरीन्द्रसिंहः अवदत्I आक्रमणाय उपयुक्तं विस्फोटकं पाकिस्थाने निर्मितम् अस्ति। घटनानुबन्धतयः एकः गृहीतः अस्ति इति तेन भणितम्। विस्फोटकाक्रमणेन त्रयः हताः विंशतिजनाः क्षताः च आसन्। मुखमाच्छाद्य द्विचक्रिकायाने आगतौ प्रार्थनालयं प्रति विस्फोटकं प्राक्षिपन्तौआस्ताम् । 
 



