OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 15, 2018

आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्
        बेड्गलूरु> बेङ्गलूरुनगरस्थे सुश्रुत-आयुर्वेद-वैद्यकीय - महाविद्यालये संस्कृतसंवर्धनप्रतिष्ठानेन "आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्" इति विषयिणी विचारसङ्गोष्ठी आयोजिता। एस् व्यास विश्वविद्यालयस्य कुलाधिपतिः डा. नागेन्द्रवर्यः पुस्तकानां लोकार्पणं कृत्वा आयुर्वेदाय संस्कृतस्य महत्त्वं कीदृशं वर्तते इति वदन् “आयुर्वेदस्य भाषा संस्कृतं पठ्यताम्” इति परियोजनान्तर्गतेषु पुस्तकेषु विद्यमानविषयाः अत्यन्तं रुचिपूर्णाः, छात्रेभ्यः शिक्षकेभ्यः च अत्यन्तं साहाय्यमाचरन्ति इमानि पुस्तकानि, अतः अवश्यम् आयुर्वेदच्छात्राः अध्यापकाश्च संस्कृतमाध्यमेन पठेयुः पाठयेयुः च इति अकथयत् । संस्कृतसंवर्धनप्रतिष्ठानं संस्कृतभारतीं च अश्लाघयत्।
       संस्कृतसंवर्धनप्रतिष्ठानस्य निर्देशकः प्रो.चान्दकिरणसलूजा महोदयः पुस्तकनिर्माणस्य पृष्ठभूमिकाम् अवदत् । तथैव गणितस्य, जीवशास्त्रस्य, भौतसास्त्रस्य, रसायनशास्त्रस्य च पुस्तकानि संस्कृतभाषया रचितानि, इतः परम् एतादृशान् विषयान् अपि संस्कृतमाध्यमेन छात्राः पठिष्यन्ति इत्यपि अवदत् ।
CCIM उपाध्यक्षः डा.बि.आर्. रामकृष्णवर्यः संस्कृतभाषायाः महिमानं वर्णयन् आयुर्वेदस्य आत्मा संस्कृतम्, यतः चरकसंहिता, सुश्रुतसंहिता, भेलसंहितादयः मूलग्रन्थाः सर्वे संस्कृतभाषायामेव सन्ति।  अतः अचिरादेव सर्वत्र आयुर्वेदमहाविद्यालयेषु संस्कृत-उपन्यासकाः पूर्णकालिकत्वेन नियुक्ताः भविष्यन्ति तदर्थं स्वयं प्रयत्नं करोमि इत्यपि अभाषत ।