OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 16, 2018

कोटित्रयाणां सम्पदः- अलीकव्यवहारे न्यायाधिपः गृहीतः।
       हैदराबाद् > अनियमेन धनार्जनं कृतवान् न्यायाधीशः गृहीतःI  अलीकारोपणेन 'आन्टीकरप्षन् ब्यूरो संस्थया कृतान्वेषणानन्तरमेव आसीत् तस्य बन्धनम्। गणनाधीताः कोटित्रयाणां रूप्यकाणां सम्पदः अन्वेषणे प्रत्यभिज्ञातम्। रङ्गरढ्ढि जनपदस्य न्ययालयस्य न्यायाधीशः वि वरप्रसादः एव एषः दोषी। तं १४ दिनानि यावत् निरीक्षणाय पालयितुं न्यायालयेन आदिष्टम् । बुधवासरे प्रभाते आरब्धम् अन्वेषणं गुरुवासरे प्रभातपर्यन्तम् आसीत्। तेलङ्कान महाराष्ट्र राज्ययोः विद्यमानेषु गृहेषु संस्थासु च  युगपदेव आसीत्  अन्वेषणम्। बन्धुगृहेषु अप्यासीत् अन्वेषणम्। वरप्रसादं विरुद्ध्य आरोपणानि अजायत इत्यनेनेव अन्वेषणाय न्यायालयेन आदिष्टम्।