OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 17, 2018

'गज' चक्रवातः तमिळ् नाट् राज्ये । १३ जनाः निहताः।
     चेन्नै> तमिळ् नाट् राज्ये अतिशक्तेन चक्रवातेन त्रयोदश जनाः निहताः। निहतेषु दशपुरुषाः तिस्रः स्त्रियः च भवन्ति।  विंशत्यधिकशतं  किलोमीट्टर् आसीत् वातस्य वेगमानः। वातस्य शक्त्या वृक्षाः पतिताः विद्युत् स्थम्भाः मार्गेषुपतिताः।  नागपट्टणे अतिवृष्‌ट्या जलाेपप्लवः अभवत् द्विसहस्रं भवनानि सम्पूर्णतया भन्गानि च। ४७१ दुरिताश्वासशिबिरेषु ८१९४८ जनाः पालयन्त सन्ति इति अधिकारिणः वदन्ति। मृतानां कुटुम्बेभ्यः व्रणितेभ्यः च तमिल् नाट् सर्व कारेण साहाय्यधनं प्रख्यापितम्। केन्द्रसर्व कारेणाऽपि अवश्मं साह्यं करिष्यति इति प्रधानमन्त्री नरेन्द्रमोदी तमिल् नाट् राज्यस्य मुख्यमन्त्रिणम् एडप्पाटि पळनिस्वामिनम्  अवदत्। दूरवाणी द्वारा आसीत्  प्रधानमन्त्रिणः भाषणम्।