OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 13, 2018

छत्तीस्गढे प्रथमसोपाने ७०% मतदानम्।
  राय्पुरम्  >  छत्तीस्गढे मावोवादिमण्डलेषु संवृत्तस्य राज्यविधानसभानिर्वाचनस्य प्रथमसोपाने सप्तति प्रतिशतं  मतदानं कृतम्। ह्यः मतदानं सम्पन्नेषु १८ मण्डलेषु द्वादशसु शक्तं मावोयिस्ट्  सान्निध्यमस्ति।  अतः अतितीव्रेण सुरक्षासन्नाहेन आसीत् मतदानप्रक्रिया।
    बिजापुरजनपदे स्थानद्वये मावोवादिनां सि आर् पि एफ् भटानां च मिथः संघट्टनम् अभवत्।  सुक्म जनपदे द्वौ मावोवादिनौ सुरक्षाभटैः व्यापादितौ। अवशिष्टेभ्यः ७२ मण्डलेभ्यः २० तमे निर्वाचनं भविष्यति।