OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 1, 2018

अर्धवैद्यान्  परिलसितुम् अनुज्ञा न दीयते। 

     स्वास्थ्यकलालयप्रवेशे उच्चन्यायालयं प्रति सर्वोच्चन्यायालयस्य रूक्षविमर्शः। 

नवदिल्ली>  स्वेच्छानुसारं सुविधारहितेभ्यः स्वास्थ्यकलालयेभ्यः अध्ययनानुज्ञां दत्वा अर्धवैद्यान् उद्पाद्य समाजे परिलसितुम् अनुज्ञा न दातुं शक्यते इति सर्वोच्चनीतिपीठः। केरलस्य चतुर्षु स्वाश्रयस्वास्थ्यकलालयेषु छात्रप्रवेशं निरस्य आदिष्टे विधिप्रस्तावे एव नीतिपीठस्य अयं परामर्शः।
     "व्यवस्थारहितं स्वास्थ्यशिक्षणं दातुम् अनुज्ञा दीयते चेत् जनानां जीवनाधिकाराय भीषा भविष्यति। आवश्यकाः आधारसुविधाः शिक्षकाश्च न सन्ति चेत् तादृशानां स्वास्थ्यकलालयानां कृते दीयमाना प्रवर्तनानुज्ञा समाजोन्नमनलक्ष्यस्य  विरुद्धा भवेत्।" एवं न्यायमूर्त्योः अरुण् मिश्रः, विनीत् सरणः इत्येतयोः नीतिपीठेन निरीक्षितम्।
     केरलस्य चतुर्भ्यः स्वास्थ्यकलालयेभ्यः छात्रप्रवेशः 'मेडिक्कल् कौण्सिल् आफ् इन्डिया' संस्थया निरस्तः आसीत्। किन्तु संस्थायाः आदेशः कलालयानाम् अभियाचिकया निरस्य छात्रप्रवेशाय अनुज्ञा दत्ता।  एतां विरुध्य संस्थया समर्पितायाम् अभियाचिकायामेव सर्वोच्चन्यायालयस्य अयं विधिः। उच्चन्यायालयस्य विधिः सर्वोच्चन्यायालयेन तीव्रतया विमृष्टः।