OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 3, 2018

उद्योग-समारंम्भकेभ्यः मोदिनः दीपावली दिनपारितोषिकम् - ५९ निमेषाभ्यन्तरे कोटि रूप्यकाणि  ऋणरूपेण प्रदास्यते।

    नवदिल्ली> लघुव्यापार-समारम्भकाणां कृते नवपञ्चाशत्  निमेषेभ्यन्तरे कोटि रूप्यकाणि ऋणरूपेण प्रदातुं योजना प्रख्यापिता। दीपावलीदिन-पारितोषिकरूपेण भवति प्रधानमन्त्रिणः मोदिनः इदं ख्यापनम्। अतिवेगेन ऋणधनप्राप्त्यर्थं नूतना अन्तर्जालसुविधा सज्जीक्रियते। अनया सुविधया एकहोराभ्यन्तरे ऋणं प्रदातुं शक्यते इति प्रधानमन्त्रिणा उक्तम्। 
      पण्यसेवनकरविभागे पञ्जीकृतेभ्यः प्रतिशतं द्वयोः रूप्यकयोः न्यूनता शिखावृद्धिक्रमे भविष्यति। एतदपि नूतनसमारंभकेभ्यः केन्द्रसर्वकारस्य दीपावलीदिन-पारितोषिकं भवति इत्यपि मोदिना उच्यते। दिल्ल्यां विज्ञानभवने लघुव्यापारसमारम्भकेभ्यः साहाययोजनायाः उद्‌घाटनं कृत्वा भाषमाणः आसीत् सः।