OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 18, 2018

मालिद्वीपराष्ट्रपतेः शपथसमारोहे नरेन्द्रमोदी विशिष्टातिथिः। 
  माले  >  मालिद्वीपराष्ट्रस्य नूतनराष्ट्रपतेः इब्राहिम मुहम्मद सोलिहस्य शपथसमारोहे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी आतिथ्यं स्वीकृतवान्। शनिवासरे राष्ट्रराजधानीं प्राप्तं मोदिनं विधानसभाध्यक्षः अब्दुल्ला मसीह मुहम्मदः स्वीकृतवान्। 
   मालिद्वपे शान्तेः जनाधिपत्यस्य च सुस्थितिः चिरं भवितव्या इति भारतस्य अभिलाषः इति मोदिना प्रकीर्तितम्। सप्तसंवत्सरानन्तरमेव कश्चन भारतप्रधानमन्त्री मालिद्वीपं प्राप्नोति। मोदिनः प्रथमं मालीसन्दर्शनं भवत्येतत्। सत्यप्रतिज्ञाकार्यक्रमानन्तरं मोदिसोलिहयोर्मेलनमप्यभवत्। 
  श्रीलङ्कायाः भूतपूर्वा प्रधानमन्त्रिणी चन्द्रिका कुमारतुङ्गे अपि कार्यक्रमे अस्मिन् भागभागिनी अभवत्। सेप्टम्बर् मासे सम्पन्ने निर्वाचने भूतपूर्वं राष्ट्रपतिं अब्दुल्ला यमीनमेव सोलिहः पराजितवान्।