OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 5, 2018

केरलीयविद्यालये छात्रनायकः नेपालदेशीयः।
    कोच्ची> माङ्कायि सर्वकारविद्यालये छात्रनायकस्थाने नेपालदेशीयः चितः। काठ्मण्डु स्वदेशी समीरः भवति एषः। दशमकक्ष्यायाः छात्रः भवति अयम्।  विद्यालयछात्रनेतुः स्थाने प्रप्रथमतया भवति विदेशराष्ट्रपौरस्य प्रवेशः।
    एषः सकुटुम्बं केरलम् आगत्य चत्वारि वर्षाणि अतीतानि। अत्र आगत्य वर्षचतुष्टयेन मलयालभाषायां सामान्य ज्ञानमपि सम्प्राप्तम्। तस्य अनुजौ अपि अस्मिन्नेव विद्यालये पठतः। पिता त्रिप्पूणितुरा देशे अवक्षिप्तवस्तूनां समाहरणं कुर्वन्नस्ति।
(छायाग्रहणम् - मलयालमनोरमा)✔