OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 22, 2018

राष्ट्रे ५०% ए टि एम्‌ उपकरणानि मार्च् मासे पिधास्यन्ते इति पूर्व सूचना।
    मुम्बै> राष्ट्रे विद्यमानेषु धनादानयन्त्रेषु  प्रतिशतं पञ्चाशत् संख्याकानि पिधास्यन्ते। इयं पूर्वसूचना 'कोण्फेडरेषन् ओफ् ए टि एम् इन्टस्ट्री' द्वारा प्रकाशिता। २.३८ लक्षं धनादानयन्त्राणि इदानीं सेवननिरतानि वर्तन्ते। एतस्मात् १.१३ लक्षं धनादानयन्त्राणि पिधानं कर्तुं निर्बद्धाः स्युः । धनादानयन्त्राणि 'सोफ्ट्वेर्' आदिवस्तूनां नवीकरणाय रिज़र्व बैंक् संस्थया कृतनिर्देशाः पालियितुं क्लेशाः अधिकाः सन्ति इति सेवनदातारः वदन्ति। समागतवर्षस्य फेब्रुवरि मासात् पूर्वं  नुतन निर्देशानुसारं  नवीकरणीयम् इत्यस्ति रिज़र्व बैंकस्य आदेशः। एतदर्थम् अधिकं धनं व्ययीकरणीयम् इत्यपि सेवनदातारः वदन्ति।