OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 29, 2018

छात्राः विमानं न आरूढवन्तः- कक्ष्या विमानवत् निर्मिता।
        जयपुरम् > विमानं प्रवेष्टुं छात्राणाम् अभिलाषस्य सफलतायै कक्ष्या विमानवत् निर्मिता। राजस्थान राज्यस्य  इन्दर् गढ् सर्वकारीयोच्चतर विद्यालये भवति विस्मयावहा एषा कक्षा। विद्यालयेऽस्मिन् ४०६ छात्राः पठन्ति विमाने उपवेशनम् इति छात्राणां स्वप्नमेवI एतत् निधाय सर्वकारीयालयतन्त्रज्ञः मासानां प्रयत्नेन कक्ष्या निर्मितवान्I स्वाध्यायकालः अवसितः चेदपि छात्राः कक्ष्यायाम् उपवेष्टुं तत्पराः वर्तन्ते इति प्राध्यापिका पुष्पमीना वदति। प्रदेशवासिनः छायाग्रहणार्थं मध्येमध्ये विद्यालयम् आगच्छन्ति। राष्ट्रे  ३.५% छात्राः शिक्षा अपूर्णतया स्थगयन्ति। राजस्थाने चतुर्दशवर्षात् ऊनवयस्काः प्रतिशतं पञ्च इति क्रमेण आधारशिक्षायामपि विमुखाः सन्ति। विद्यालयस्य आकर्षकता नास्ति इत्यपि कारणत्वेन वदन्ति। एतस्य परिहाराय सर्वशिक्षा अभियानेन कक्ष्यानिर्माणाय धनं व्ययीकृतम्। अन्तर्जाल सुविधया सहित LED फल कम्, नूतनोद्यानं च अत्र विशेषतया सज्जीकृतम् वर्तते।