OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 25, 2018

भागिककालीनेभ्यः कर्मकरेभ्यः भविष्यनिधि:  अङ्‌गीकृता।
     तिरुवनन्तपुरम्> भागिककालीनेभ्यः कर्मकरेभ्यः भविष्यनिधिः इति कल्पना वित्तलेखाधिकारिणा(AG) अङ्‌गीकृता। अस्याः कृते अवश्यप्रक्रमस्वीकाराय  आदेशः  आर्थिकविभागाय प्रदत्तः। केरलेषु इतः पर्यन्तं भागिककालीनेभ्यः कर्मकरेभ्यः भविष्यनिधिः नासीत्I अस्मिन् गणे अधिकाः संस्कृताध्यापकाः एव। संस्कृताध्यापक फेडरेषन् इति अध्यापकानां स्वतन्त्र-सङ्घटनया वर्षाणियावत् प्रयत्नः कृतः । विभिन्न-राजनैतिकदलीयानां सर्वकारैः शासनं कृतं चेदपि अध्यापकानां निवेदनम् अधिकारं च विगणितम्।  २०१२ तमे संवत्सरे संस्कृताध्यापफेडरेषन्  (KSTF)संघटनया राज्यस्थरीयान्दोलनं-कृत्वानन्तरं पुनरपि निवेदनं समर्पितम्। तन्निवेदने अधुना एव युक्तन्यायनिर्णयाय प्रक्रमः स्वीकृतः। एतदर्थं केरलसर्वकारः भविष्यनिधिनियमेषु अवश्यं व्यत्ययं करणीयम् अस्ति।  तदपि शीघ्रं कृत्वा त्वरितप्रक्रमाः भविष्यन्ति इति विद्यालयीयशिक्षकाणां  विश्वासः भवति इति के एस् टी एफ् संधनेता पी जी अजित् प्रसादः अवदत् ।