OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 14, 2019

सोष्यल् मीडियाद्वारा संस्कृतप्रचारणम् अभिनन्दनीयम् - बलदेवानन्द सागरः
-साक्षी चौरसिया
    नवदेहली> सोष्यल् मीडियाद्वारा संस्कृतप्रचारणम् अभिनन्दनीयम् इति संस्कृतवार्ताप्रसारकेण  डा. बलदेवानन्द-सागरेण उक्तम्। देहल्याः मिराण्डाहाऊस्  महाविद्यालये आयोजिते “एम॰ एल॰ गुप्ता” स्मृतिव्याख्याने “संस्कृतस्य आधुनिकं स्वरूपम्” इति विषयमधिकृत्य भाषमाणः आसीत् सः। प्रसङ्गेऽस्मिन् विविधवैबसाइट्  विषये तेन बोधितम्I  येन माध्यमेन वर्तमानसमये संस्कृतसाहित्यम् ऑण्लाइन् माध्यमेन प्रस्तुतङ्कृतम्, तथा च केन प्रकारेण अत्यन्तसरलरीत्या संस्कृतं बोध्यते। संस्कृतभारत्या निर्मिता ऑण्लाइन्  शब्दकोशस्य विषयेऽपि उक्तम्, यस्मिन् कमपि शब्दं लिखित्वा तस्य शब्दस्य सम्बन्धितः सर्वं ज्ञातुं शक्नुमः।
    डॉ॰ सागरेण विरचितं “संस्कृतपत्रकारिता” इति वार्तासम्बद्धं  पुस्तकमस्ति, यत् ऑनलाइन् विभिन्नभागेषु दृश्य-श्रव्य रूपेण उपलब्धमस्ति। “सम्प्रतिवार्ता” नामिकायाः ई-पत्रिकायाः विषयेऽपि तेनोक्तं यत् लघुबालकानां कृते अस्याः पत्रिकायाः सम्पादकः हरिकुमारमहाभागस्य नूतनप्रयासोऽस्ति। आकाशवाणी, दूरदर्शन, लघुचलचित्राणां लेखनं-श्रवणञ्चादि विषयेऽपि उक्तम्। तथा च व्याकरणस्य धातुः, कारकं समासः इत्यादीनां विश्लेषणमपि ऑण्लाइन माध्यमेन उपलभ्यते। सर्वेऽस्मिन् माध्यमैः  प्रयासैः संस्कृतं सामान्यवार्तालापस्य भाषापर्यन्तं नेतुं मार्गं प्रशस्तङ्कृतम्। महाविद्यालयस्य छात्र-छात्राभिः उत्थानाय कुर्वतां लघु लघु  प्रयासानां प्रशंसाङ्कृतं तथा च सोष्यल् मीडिया इत्यस्योपरि प्रचलिताः काश्चन संस्थाः तथा तासां संस्थापकानपि प्रशंसाङ्कृतम्। 
     सभायामस्यां विभागाध्यक्षा डॉ॰ रेखाअरोड़ाया, डॉ॰ शशीतिवार्या, संस्कृतभारत्याः गवीशद्विवेदिनः सह विभिन्न महाविद्यालयेषु छात्र-छात्राः अपि उपस्थिताः आसन्।