OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, January 15, 2019

कृत्रिमश्वासकोशः दिनेनैकेन श्यामः अभवत्। वायूप्रदूषणः रूक्षतरः।

कृत्रिम श्वासकोशः -  छाया -ANI
    लख्नौ> चतुर्विंशति होराभ्यन्तरेण  कृत्रिमः आदर्शश्वासकोशः श्यामवर्णमभवत्। उत्तर प्रदेशस्य  राजधान्यां वायूप्रदूषणस्य काठिन्यं मानितुं संस्थापितः अस्ति कृत्रिमश्वासकोशः। मनुष्याणां श्वासकोशं वायूप्रदूषणेन कियन्मात्रं नाशं याति इति जनान् बोधयितुमुद्दिश्य आसीत् श्वासकोशस्य स्थापनम्।
राष्ट्रे वायूप्रदूषणस्य आधिक्यं दिल्याम् इति अङ्कितम् आसीत्। तत्र दिल्लीनगरे षट् दिनेन आसीत्  कृत्रिमश्वासकोशस्य वर्णपरिवर्तनम्। बंगलूरु नगरे १८ दिनानन्तरमेव  वर्णपरिवर्तनमभवत्। 'क्लैमट् अजन्ट' इति पर्यावरणसंबन्ध- अनुसन्धानं कुर्वन्त्याः संस्थायाः एव प्रमुख नगरेषु कृत्रिम श्वासकोशाः स्थापिताः। केन्द्रसर्वकारस्य वायूप्रदूषण-न्यूनीकरण-योजनाः कर्यक्षमतया न प्रवर्तन्ते इत्यनेन प्रदूषणस्य वर्धनस्य कारणम् इति 'क्लैमट् अजन्ट' इत्यस्य निदेशकः एकताशेखरः अवदत्।