OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 16, 2019

दूरदर्शन-वाहिनीभ्यः नूतना मूल्यव्यवस्था निर्णीता - १०० वाहिन्यः १५३.४० रूप्यकाणि।
     मुम्बै> लक्षशानां दूरदर्शनप्रेक्षकाणां तोषं वितीर्य 'ट्राय्' आयोगेन आदेशः प्रख्यापितः। आदेशानुसारं शतं वाहिनीपटलेभ्यः त्रिपञ्चाशतधिकैकशतं रूप्यकाणि इति निश्चितम्। मूल्ययुक्ता वा निर्मूल्या वा शतसंख्यकानां वाहिनीनां कृते १५३.४० रूप्यकाणि एव। उपभोक्तारः जनुवरिमासस्य ३१ दिनाङ्कतः पूर्वं अवश्यकानां १०० वाहिनीनां पट्टिका दातव्या। फेब्रुवरि १ दिनाङ्के सुविधेऽयं प्रबला भविष्यति। अस्यां सुविधायां HD वाहिन्यः न अन्तर्भवन्ति। वाहिनीनां अधिकतमं मूल्यं १९ रूप्यकाणि इति निर्णीतमस्ति। द्वयोः सामान्यवाहिन्याेः स्थाने उच्च परिभाषित (HD/स्पष्ट विस्तृत चित्र) एका वाहिनी दातुं सन्नद्धाः इति काचन वाहिनीनां स्वामिनः उक्तवन्तः सन्ति।