OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 30, 2019

केन्द्रीयविद्यालयेषु हिन्दुधर्मप्रार्थना मास्तु इति याचिका - जनसञ्चारमाध्यमेषु याचिकां विरुध्य अभिमतानि प्रवहन्ति। 
      नवदिल्ली> केन्द्रीयविद्यालयेषु प्रार्थना हिन्दुधर्म संबन्धी इति आरोपणेन शीर्षन्यायालयस्य पुरतः याचिका पञ्जीकृता। सर्वकारेण सञ्चाल्यमानेषु विद्यालयेषु उपयुज्यमाना प्रार्थना हिन्दुधर्मसंबन्धी भवति  अतः तादृशी प्रार्थना रोधनीया इत्यस्ति याचिका। शीर्षन्यायालयस्य संविधानपीठे वादश्रवणः भविष्यति। कस्यचिदपि धर्मस्य प्रचारः सर्वकारस्य शिक्षासंस्थया क्रियते इति, न समीचीनः इत्युक्त्वा मध्यप्रदेशराज्यस्थेन विनायक षा इत्यनेन एव याचिका प्रदत्ता। असतो मा सद्गमया इति उपनिषन्मन्त्रं विरुद्ध्य आसीत् याचिका।  
     वार्तामिमामधिकृत्य समूहमाध्यमेषु विरुद्धविचाराः प्रचलिताः सन्ति। धर्मातिरिक्त ग्रन्थः उपनिषत् भगवद्गीतादयः इति लोके सर्वत्र सुविदितमेव। तथापि भारतसंस्कृतेः नाशमुद्दिश्य भारताभिमानरहिताः  केचन न्यायालयानां साहायेन कुत्सितकर्मणि व्यापृताः इति भूरिजनानां मतः।