OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 23, 2019

अफ्गान् राष्ट्रे सैनिककेन्द्रः भीकरैः आक्रमितः। 
शताधिकाः भटाः मृताः। 
उत्तरदायित्वं तालिबानेन स्वीकृतम्।
  काबूलः >अफ्गान् राष्ट्रे सैनिककेन्द्रे भीकराक्रमणं, १२६ सैनिकाः मृताः। मरणसंख्या वर्धयेदिति सूचना।काबूलस्य समीपस्थे सैनिककेन्द्रे आक्रमणं अभवत्। अस्य उत्तरदायित्वं तालिबानेन स्वीकृतम्। काबूल्तः चतुश्चतावारिंशत् कि.मी दूरे मैदान शहर्यां वर्तमावे प्रशिक्षणकेन्द्रे आक्रमणम् अभवत्।प्रशिक्षणकेन्द्रे भीकरैः कार्यानेन आक्रमितम्। पूर्वं द्वादश सैनिकाः एव मृताः इति सर्वकारेण उक्ताः आसन्।किन्तु अनन्तरं १२६ हताः इति सैनिकवक्ता अवदत्।