OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 18, 2019

'रञ्जि ट्रोफी' क्रिक्कट् - केरलेन उपान्त्यचक्रं प्रविष्टम्। 
 वयनाट् >  अशीतिसंवत्सरात्मिकायाः रञ्जिट्रोफी क्रिक्कट् स्पर्धायाः चरिते इदंप्रथमतया केरलस्य उपान्त्यचक्रप्रवेशः। प्रतियोगिनं गुजरातदलं केरलं कन्दुकक्षेपेण न्यपातयत्।केरलाय ११३ धावनाङ्कानाम् उज्वलविजयः। 
  प्रतियोगितायाः तृतीये दिने १९५ धावनाङ्कानां विजयलक्ष्येण क्रीडाङ्कणं प्राप्तः गुज्रराज्यस्य ताडनव्यूहः ३१.३ क्षेपणचक्रे केवलं ८१ धावनाङ्कैः बहिर्नीतः। गुज्रदलस्य प्रारम्भकावभिव्याप्य ५ द्वारकान् प्राप्तः नायकः बेसिल् तम्पी तथा ४ द्वारकप्राप्तः सन्दीपवारियरः च केरलस्य विजयशिल्पिनौ।