OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 30, 2019

"सुकर्म एव अन्तकाले कार्यं ददाति"  -स्वामी दिव्यानन्दगिरिः
वार्ताहरः-अमित ओली
     कनखलः(हरिद्वारः) > व्यक्तिः सुकर्म  न करोति तर्हि अन्ततो गत्वा मृत्योः मुखं एव पतति। जगत्यस्मिन् यः कोऽपि वा भवतु स्वकीयानां सम्बन्धिनां वा कर्मणा स्वयं रक्षणं कर्तुं न शक्नोति। एतादृशः मनुष्यः रिक्तहस्तेनैवान्तसमये मृत्युं प्रति गच्छति। स्वामी जी अमुंं विचारं  श्री रघुनाथमंदिरे माघमहात्म्यस्य कथाकथने प्रकटितवान्। तथा तत्रोपस्थितवन्तः सर्वे श्रद्धालवः श्रद्धया स्वामीजीनां  उपदेशं श्रुतवन्तः। स्वामी दिव्यानन्देन उक्तं यत् मनसि एव स्वर्गः भवति तथा मनसि एव नरकः भवति। व्यक्तिः स्वयमेव गृहं परिवारञ्च स्वर्गतुल्यं करोति। मनुष्यस्य स्वभावनायाः उपरि सर्वं निर्भरं करोति। यथा कुरुक्षेत्रे कौरवाणां पाण्डवानाञ्च मध्ये युद्धं भवति तथैवास्माकं मनस्यर्हनिशमिच्छानां तथा तृष्णानाञ्च युद्धं चलायमानं भवति। शिवमहिम्नः  बोधनावसरे स्वामी जी कथयति यत् सम्पूर्णजगत्    शिवमेवास्ति। यथा अधंकारे रज्जूः सर्पवदेव प्रतिभाति तथैव मायायाः प्रभावेन परमात्मनः शिवस्य शुद्धस्वरुपं जगदेतत् स्वप्नवत् विभाति। मायायाः भ्रान्त्यैव भगवन्तं न पश्यन्ति जनाः। अत एव सत्संगेन सन्तशरणेन च परमात्मनः अनुभवं कर्तुं शक्यते। वेदान्ताचार्यः स्वामी विवेकानन्दः अप्यकथयत्  मनुष्यः यत्किमपि वदेत् वारशतं चिन्तयित्वा वदेत्, तथा च यत्किमपि कुर्यात् वारसहस्रं चिन्तयित्वा एव कुर्यात्,यतोऽहि तेषां परिणामः अग्रे अवश्यमेव दृश्यते। अतएव कुकर्म त्यक्त्वा नम्रं भूत्वा स्वजीवनं भोक्तव्यम् इति ज्ञानमाध्यमेन ते सर्वान् भगवद्दर्शनं कारितवन्तः।