OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 21, 2019

कार्त्यायनी अम्मा कोमण्वेल्त् लेर्णिङ् अम्बासिडर् भविष्यति। 
       तिरुवनन्तपुरम् > षण्नवत्यां वयसि साक्षरता मिषनस्य परीक्षायां प्रथमपदं प्राप्तवती कार्त्यायनियम्मा कोमण्वेल्त् लेर्णिङस्य अम्बासिडर् भविष्यति। कोमण्वेल्त् लेर्णिङस्य उपध्यक्षः बालसुब्रह्मण्यः कार्त्यायनियम्मया सह मेलनानन्तरं तदधिकृत्य प्रख्यापनं कृतवान्।
     विदूरशिक्षायाः प्रचारः कोमण्वेल्त् लेर्णिङस्य लक्ष्यम्।  विविधराष्ट्रेषु आयुः अतिक्रम्य विजयं प्राप्तवतां चरितानि कोमण्वेल्त् मासिकायां प्रकाशयितुं प्रयत्नाः प्रचलन्ति।  सूचिकायां एषा कार्त्यायनियम्मा च अस्ति। साक्षरता परिषदः 'अक्षरलक्षम् इति परीक्षार्थं आगतायाः कार्त्ययनियम्मायाः चित्राणि समूहमाध्यमेषु आगतानि। अस्मिन् वार्धक्येयेपि अस्याः अध्ययनतत्परतां  प्रशंस्य अनेके प्रमुखाः अपि समागताः आसन्।कार्त्ययनि अम्मा इदानीं चतुर्थकक्ष्यायाः परीक्षार्थी भवति।
-डा जे अभिलाषः