OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 20, 2019

मेक्सिक्को राष्ट्रे तैलनालिकासरणौ स्फोटनम् - ६६ मृताः।  
 सप्तत्यधिकाः आहताः ; ८५ अप्रत्यक्षाः। 
मेक्सिको सिटी>  मेक्सिको राष्ट्रे तैलनिर्गमन-नालिकासरणौ प्रवृत्तेन  स्फोटनेन ततः सञ्जातया अग्निबाधया च ६६ जनाः मृताः। सप्तत्यधिकाः जनाः दाहव्रणिताः जाताः। तथा च ८५ जनाः अप्रत्यक्षाः अभवन्निति अधिकृतैरुक्तम्। 
 हिडाल्गो नामके राज्ये 'लाह्यूवेलिन् पान्' नगरे आसीदियं दुर्घटना। तैलचोराणां नियमविरुद्धव्यवहारा  एव दुर्घटनायाः भूमिकायाममिति प्राथमिकनिगमनम्। चौर्यवृत्या नालिकासरणौ  स्फोटिते तैलसङ्कलनाय जनानां यत्न एव दुर्घटनाव्याप्तिवर्धनाय कारणमिति पेमेक्स् नामकतैलसंस्थायाः अधिकृतैरुक्तम्। 
  तैलचोरणं तथा दुर्घटना च मेक्सिको राष्ट्रे सर्वसाधारणं भवति।