OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 14, 2019

हट्टतालात् विमुच्यन्ताम्, अध्ययनाय अनुज्ञायन्ताम् इति सम्प्रार्थ्य छात्राणां पत्रकारसम्नेलनम्। 
  अनन्तपुरी >  'हर्ताल्' नामकात् सर्वबन्धनाह्वानात् आत्मानः वीमुच्यन्ताम् इति अभ्यर्थयन् अनन्तपुरीनगरीस्थानां विभिन्नविद्यालयानां कश्चन छात्रसमूहः पत्रकारितावेदिकायाम् प्राप्तः। यथा हट्टतालात् क्षीरपत्रिकातुरालयाः मुच्यन्ते तथा विद्यालयाः अपि विमुक्तव्या इति छात्रैः निवेदितम्। 
   यत्र २२० साध्यायदिनानि लभ्यानि इतःपर्यन्तं १८५ दिनानि एव लब्धानि। अवशिष्टकालमपि गण्यते चेत् १८५ दिनेभ्यः अधिकं न लभन्ते। अध्ययनभारं तु २२० दिनानाम्। कथमस्माभिः परीक्षा अभिमुखीक्रियते इति ते पृच्छन्ति।
  "राज्यान्तरेषु सर्वबन्धनाह्वानं विरलमस्ति। प्रतिषेधे सत्यपि विद्यालयीयप्रवर्तनाय प्रतिबन्धो नास्ति। अत्र तु प्रथमं छात्रयानान्येव निरुणन्धि। वयं कान् प्रति स्पर्धिष्यामहे?" छात्राः पृच्छन्ति। 
  अनन्तपुरीस्थानां पट्टं सेन्ट् मेरीस्, विष़िञ्ञं सेन्ट् फ्रान्सिस्, कवटियार् क्रैस्ट् नगर्, कष़क्कूट्टं ज्योतिस्, आट्टुकाल् चिन्मया इत्येतेषां विद्यालयानां छात्रप्रतिनिधयः पत्रकारसम्मेrलने भागभाजः अभवन्।