OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 28, 2019

अस्य वर्षस्य शर्माजी पुरस्कारः डा. जी चन्द्रशेखरप्रभुवर्याय
   कोच्ची> प्रसिद्धसंस्कृतकवेः संस्कृतप्रचारकस्य वि. कृष्णशर्मणः स्मरणार्थं कर्मकुशलाय संस्कृताध्यापकाय विश्वसंस्कृतप्रतिष्ठानेन दीयमानः शर्माजीपुरस्कारः डा. जी चन्द्रशेखरप्रभुवर्याय सम्मानितम्। विश्वसंस्कृतप्रतिष्ठानस्य अध्यक्षः डा. पी के माधवमहाशयः पुरस्कारम् अदात्। नागपुरस्थ कविकुलगुरू कालिदासविश्वविद्यालयस्य व्याकरणविभागस्य अधिष्ठाता डा. सी. जी विजयकुमारवर्यः शर्माजी अनुस्मरणभाषणमकरोत्I कार्यक्रमे Sस्मिन् राष्ट्रपतिपुरस्कारेण सम्मानितस्य डा. जी गंड्गाधरमहोदयरस्य सम्माननमपि अभवत् । डा. एम् पी उण्णिकृष्ण वर्यः आशंसावचनानि प्रदात् । डा. एडनाट् राजन् नम्ब्यार् स्वागतं तथा डा. पीके शङ्करनारायण: कृतज्ञतां च अकरोत् ।