OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 25, 2019

बिहारस्य पुत्री संयुक्त-राष्ट्र-अमेरिकायां सिनेटर घोषिता, श्रीमद्भगवद्गीताया शपथं गृहीतम्, गुञ्जायमाना "जय-हिन्द" इति सूक्तिः —
-साक्षी चौरसिया
      पटना>  बिहारस्य मुंगेरजनपदस्य निवासी मोनादासः अमेरिकायाः वाशिङ्ग्टन् राज्ये समाजतन्त्रदलस्य सिनेटर इति पदे घोषिता । विशेषवार्ता इदं यत् सा श्रीमद्भगवद्गीतां हस्ते स्थापयित्वा शपथं गृहीतवती, तथा च "जय-हिन्द, भारत माता की जय" इत्ययोः जयजयकारः अपि कृतम्। सा महात्मागान्धिनं, प्रधानमन्त्रिणं-नरेन्द्रमोदिनं च  प्रशंसां कृतवती। तया न केवलं शपथग्रहणार्थं मकरसङ्क्रमणस्य पर्वस्य चयनङ्कतम्, अपितु हिन्द्यां नमस्कारः, प्रणामञ्च उक्त्वा मकरसङ्क्रमणस्य शुभाशयाः अपि प्रदत्तः।

संबोधने आगतः बालिकानां शिक्षायाः विषयः —
      शपथग्रहणे अमेरिकी-सीनेट-एतेन स्वसंबोधने मोनादास-इत्येतया उदिता बालिकानां शिक्षायाः विषयः। तयोक्तं यत् एकां बालिकां शिक्षितकरणेन संपूर्णपरिवारः तथा भावीपरिवारोऽपि शिक्षितं कर्तुं शक्यते। तयोक्तं यत् सिनेटर इति रूपेण सा बालिकानां शिक्षां वर्धापनाय कार्यं करिष्यति। मोनां सीनेट हाऊसिंग स्टेबिलिटी एंड अफोर्डेबिलिट एंड कमेटी इत्यस्य सह-सभाध्यक्षायाः कार्यभारं प्रदास्यते।