OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, January 31, 2019

रक्षाकर्तारः स्वस्य अभिलाषाः अपत्यानाम् उपरि मा स्थापयन्तु - नरेन्द्रमोदी।
     नव दिल्ली> प्रतिशिशु स्वकीया शक्तिः क्षमता च स्तः रक्षाकर्तारः तेषां अभिलाषाः अपत्यानम् उपरि मा स्थापयन्तु इत्यपि तेनोक्तम्। नवदिल्यां समारब्धायां 'परीक्षा पर चर्चा'याम् आसीत् रक्षाकर्तृन्  उद्दिश्य मोदिनः ईदृशः उपदेशः।
      राष्ट्रे राष्ट्रान्तरे च अध्ययनं कुर्वाणः छात्राः सन्दर्भे अस्मिन् भागभाजः आसन्। ओण्लैन् स्पर्धायां भागं स्वीकृतेषु लक्षद्वयं छात्रेषु द्विसहस्रं छात्राः चर्चार्थं चिताः। रष्य, नैजीरिया, इरान्, नेपाल्, कुवैत्, सौदी अरेब्य, सिङ्गपूर् राष्ट्रेभ्यः छात्राः भागं ग्रहीतवन्तः आसन्। " परीक्षायाः  पूर्वं भवन्तः अनेन भाषणेन शान्ताः भविष्यन्ति इति न वदामि। किन्तु इयं परीक्षा भविष्यनिर्णया वा एकस्मिन् कक्ष्यातः अन्य स्मिन् प्रति प्रवेशाय वा इति स्वयमेव प्रष्टव्यम्।  प्रश्नानां उत्तराणि लभते चेत्  मनसः सम्मर्दः लघू भविष्यति। रक्षाकर्तॄणाम् मनसाम् आधिः कथं लघूकर्तुं शक्यते इति कश्चन छात्रः प्रश्नम् अपृच्छत्।  रक्षाकर्तारः स्वस्य अभिलाषाः अपत्यानाम् उपरि मा स्थापयतु इति तेन प्रत्युत्तरवत् उक्तम्।