OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, January 16, 2019

काश्मीरस्य आतङ्कवादिनः देशस्य पुत्राः - केन्द्रसर्वकारेण भीकरनेतृभिः सह चर्चा करणीया - महबूबा मुफ्ती
-साक्षी चौरसिया
    श्रीनगरम्>  जम्मूकाश्मीरस्य पूर्वमुख्यमन्त्रिरिण्या महबूबामुफ्ततिना स्थानीयातङ्कवादिनः देशस्य पुत्राः इति उक्तम्, तेषां रक्षणाय प्रयत्नः करणीयः। महबूबायोक्तं यत् जम्मूकाश्मीरे उपकरण-संस्कृतेः (गन-कल्चर्) परिष्काराय केन्द्रसर्वकारः स्थानीय-आतङ्कवाद-संघटनैः सह चर्चाङ्करणीया।
  महबूबाया अनंतनागे राजनैतिकदलस्य कार्यक्रमानन्तरं उक्तं यत् अधुना पाकिस्तानं अलगाववादी दलयोर्मध्ये चर्चा करणीया। तथैव आतङ्कवाद-दलस्य नेतृत्वेन सहापि चर्चा भवितव्या, एतेषां हस्ते भुशुण्डयः सन्ति तथा एतैः राज्ये उपकरणसंस्कृतिं परिष्कृतं कर्तुं शक्नुवन्ति। पूर्वमुख्यमन्त्रिणोक्तं यत् ममानुसारेण केषुचन स्थानेषु हुर्रियत् तथा आतङ्कवादिनः सह चर्चा अधुना शीघ्रतया भविष्यति। तयोक्तं यत् स्थानीय आतङ्कवादीन् हिंसां प्रति गमनात् प्रतिनिवर्तनीयः।