OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 6, 2020

 भारतचीनयोर्मध्ये सीमां सम्बन्ध्य समस्या -चर्चा प्रचलन्ती वर्तते।
     नवदहली > पश्चिमलडाक् मध्ये सीमां सम्बन्ध्य भारतचीनयोर्मध्ये अनुवर्तमानां समस्यां परिहर्तुं द्वयोरपि राष्ट्रयोः सैनिकस्तरीयचर्चा अग्रेसरन्ती वर्तते। अद्य प्रातः आरब्धायां चर्चायां भारतेन क्रियमाणं मार्गनिर्माणं मुख्यविषयः अभवत्।  सीमायाः चीनदेशेन स्वसैन्यं प्रत्याहूतं चेदेव भारतेनापि सैन्यं प्रतिगृह्यते इति भारतप्रतिनिधिभिः अर्थशङ्कां विना चर्चायां विशदीकृतम्। भारतसीमाभ्यः चीनशेन निर्मितानि आंशिकभवनानि निष्कासनीयानि इत्यपि चर्चायां भारतेन निवेदितम्। पश्चिमलडाक् सीमायाः संरक्षणदायित्‍वम् निर्वहन् लफ्ट्णन्ट् जनरल् हरीन्दरसिंहः चर्चायां भारतस्य प्रतिनिधिः भवति। भारताधीनप्रदेशेषु क्रियमाणं मार्गनिर्माणं चीनदेशं लक्ष्यीकृत्य न भवति, मण्डलस्य परिपालनाय प्रवृत्तिरियम् आवश्यकी एवेति भारतेन विशदीकृतम्। चर्चा अधुनापि प्रचलन्ती एव भवति।