OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 17, 2020

चीनभारतयोर्मध्ये सञ्जाते सङ्घर्षे आशङ्कां प्रकटय्य यु एन्।
     न्यूयोर्क्> लडाक् सीमनि चीनभारतयोर्मध्ये सञ्जाते सङ्घर्षे आशङ्कां प्रकटय्य यु एन्।  द्वे राष्ट्रे प्रत्यपि संयमनपालनाय यु एन् अध्यक्षः अन्टोणियो गुटेरस् निरदिशत्। नियन्त्रणसीमनि सञ्जातेन सङ्घर्षेण द्वयोरपि राष्ट्रयोः सैनिकानां जीवनाशः अपि सञ्जातः वर्तते, विषयेऽस्मिन् यु एन् कार्यालयस्य उपवक्त्रा एरि कनेको महोदयेनापि आशङ्का निवेदिता। पश्चिमलडाक् मध्ये सञ्जातेन सङ्घर्षेण २० भारतसैनिकाः ४३ चीनसैनिकाः च मृताः वर्तन्ते। समस्यापरिहाराय नयतन्त्रस्तरे चर्चाः पुनरारब्धाः च।