OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, June 12, 2020

पाकिस्थानं कोविड् अधिकतया बाधते। २४ होरा भ्यन्तरे ५००० जनाः रोगग्रस्ताः। 
   इस्लामबाद्> पाकिस्थानेषु कोविड् रोगाणुव्यापनम् अनियन्त्रितम् अभवत्। २४ होराभ्यन्तरे नूतनतया ५३८७ जनाः रोगग्रस्ताः अभवन् इत्यस्ति इदानींतनीया समस्या। २४ होराभ्यन्तरे रोगग्रस्तेषु ८३ सङ्ख्याकाः मारिताश्च। आहत्य इतःपर्यन्तं ११३,८०२ जनाः रोगग्रस्ताः, २२५५ रोगिणः  ३६३०८ रोगविमुक्ताश्च। 
   सन्दर्भेस्मिन् सप्ताहद्वयं यावत्  पिधानम्  वारं वारम् आवश्यकम् इति विश्वस्वास्थ्यया निर्दिष्टम् ।