OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 7, 2020

कोविड् मरणानि आविश्वं चतुर्लक्षं - जाग्रतायां जनाः शैथिल्यमावहन्ति। 
'वियट्नां लीग्' द्रष्टुं कोविड् नियमानुल्लंघ्य जनाः। 
  > अखिले लोके कोविड्रोगेण चतुर्लक्षाधिकाः जनाः परलोकं गताः। यू एस् मध्ये १,११,६२७  ,ब्रिट्टने ४०,४६५ , ब्रसीले ३५,१३९ ,इट्टल्यां ३३,८४६ , फ्रान्से २९,१११ , भारते ६९६० ... एवं मरणानि तथा रोगसंक्रमणं च एतेषु राष्ट्रेषु प्रतिदिनं वर्धते। किन्तु  जाग्रतापालने जनानां निष्ठा सर्वेषु राष्ट्रेषु उपेक्षितप्राया दृश्यते। भारतमभिव्याप्य बहुषु राष्ट्रेषु पिधाने नियन्त्रणे च बहूनि शैथिल्यानि अनुमोदितानि। एतेषां दुरुपयोग एव सर्वत्र दृश्यते। 
यूएस् मध्ये वीथिं प्रपूरिताः प्रक्षोभकाः।
  वियट्नामदेशे 'वियट्नां लीग्' नामिका पादकन्दुकक्रीडापरम्परा पुनरारब्धा। प्रेक्षकाः कोविड् व्यवहारनिष्ठां तृणवत्कृत्य एव क्रीडादर्शनाय क्रीडाक्षेत्रं प्राप्तवन्तः। अमेरिक्कायां प्रशासनं विरुध्य सहस्रशः जनाः वीथिषु प्रपूरिताः। 
  सामाजिकदूरपालनं, मुखावरणधारणं, हस्तप्रक्षालनमित्यादिकं विनैव सामान्यजनाः सामान्यस्थानेषु विपणिषु बस्याननिस्थाषु इत्यादिषु व्यवहरन्ति।