OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 27, 2020

कोविड् १९ - रोगिणः एककोटिं प्राप्नोति। 
विश्वं कोविड्गृहीतं सत् १८३ दिनानि।
अमेरिक्कायां पिधानं प्रत्यागच्छति। 
  >  चीनराष्ट्रस्य वुहान् प्रविश्यायां मत्स्य-मांसविपणीतः बहिर्गत्वा निखिलं विश्वं सम्भ्रान्तिं निमज्जमानः स्वकीयविक्रियाविलासमनुवर्तमानः अस्ति कोविड् १९ रोगस्य कारणभूतः कोरोणनामकविषाणुः। १८३ दिनेभ्यः पूर्वं चीनात् प्रयाणमारब्धः विषाणुः द्विशताधिकानि राष्ट्राणि सम्प्राप्य अद्यावधि उपैककोटिपरिमितान् जनान् अबाधत। मरणानि तु पञ्चलक्षमुपैति।  
  अत्यधिकं कोविड्बाधिताः मृत्युभूताश्च अमेरिक्कायां सन्ति - यथाक्रमं २५,०६,३७० तथा १,२६,८३९ च। तत्र केवलं ह्य एव ४०,००० कोविड्संख्या निवेदिता। युवकाः एव इदानीं यू एस् मध्ये  रोगबाधिताः भूयन्ते।
    रोगबाधितानां संख्या अनुदिनमुद्गच्छन्ती इत्यतः पूर्वमेव पिधानात् प्रतिनिवृत्तानि टेक्सस्, फ्लोरिडा , अरिसोणा इत्येतानि राज्यानि पुनरपि नियन्त्रणानि विहितानि। 
  इतरेषु राष्ट्रेषु च रोगबाधा उद्गच्छति। ब्रसीले १२ लक्षाधिकाः जनाः रोगबाधिताः अभवन्। ५५,०००अधिताः मृत्युवशं गताः। अन्यराष्ट्रेषु रोगबाधिताः एवम्- [कोष्ठके मृत्युभूताः ] ब्रिट्टन् - ३,०७,९८० [४३,२३०], स्पेयिन् - २,९४,९८५ [२८३३८], रूस् - ६,२०,७९४ [८,७८१], इट्टली - २,३९,९६१ [३४,७०८], भारतं - ५,०६,८८९ [१५,६६२]