OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 28, 2020

चीनसीम्नि भारतस्य १५,००० भटाः विन्यस्ताः। 
 नवदिल्ली > चीनस्य आक्रमणभीषां प्रतिरोद्धुं पूर्वलडाके वास्तविकनियन्त्रणरेखां [एल् ए सि] प्रति भुशुण्डि-युद्धविमानादिसन्नाहैः सह १५,००० भारतीयभटाः सर्वकारेण नीताः। उत्तरलडाके 'दौलत् बाग् ओल्डि' प्रदेशे चीनेन सह कृतसंघर्षानन्तरम् इदानीमेव एतादृशं महान् सैनिकसन्नाहः भारतेन नीयमानः अस्ति। 
  पञ्चभिः 'ब्रिगेड्' नामकसंघैः १५,००० सैनिकाः विन्यस्ताः वर्तन्ते। भटान् विना 'टान्क्' नामकयुद्धोपकरणानि, व्योमप्रतिरोधभुशुण्डयः , अमेरिक्कातः नूतनतया क्रीताः 'अप्पाच्चि' नामकानि आक्रमणोत्सुकानि उदग्रयानानि च युद्धसन्नाहे अन्तर्भवन्ति।