OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 11, 2020

कोविड् - तमिल्नाटे विधानसभासामाजिकः मृतः।
अन्पष़कः। 
चेन्नै >  तमिल् नाटुराज्ये कोविड् १९ रोगबाधया विधानसभासामीजिकः मृत्युमुपगतः। डि एम् के राजनैतिकदलीयः सामाजिकः जे अन्पष़कः बुधवासरे प्रभाते चेन्नैस्थे निजीयातुरालये कालवशं प्राप्तवान्। भारते कोविड्बाधया मृत्युमुपगतः प्रथमः जनप्रतिनिधिः भवत्येषः।
  चेन्नैयां कोविड् समाश्वासप्रवर्तनेषु नेतृत्वं कुर्वन्नासीत् अन्पष़कः। एतस्मिन्मध्ये ज्वरेण श्वासवैषम्येन च सः जूण् २ तमे आतुरालयं प्रवेशितः। रोगे कठिनतरे श्वसनसहायीमाश्रितः। किन्तु पूर्वं यकृत्स्थानान्तरशस्त्रक्रियाविधेयः इत्यतः चिकित्सा सङ्कीर्णा अभवत्। ह्यः मृत्युश्चाभवत्।