OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 29, 2020

कोविड्१९ रोगनिर्णयः गृहे एव कर्तुं सुविधा सम्पद्यते।
       नवदहली> कोविड्१९ रोगनिर्णयः गृहे एव कर्तुम् उपकारकम् उपकरणं विकासयितुम्  सि एस् ऐ आर् संस्थायाः नियन्त्रणे पूणे मध्ये प्रवर्तमानं नाशणल् केमिकल् लबोरटरि, ऐ ऐ टि दहली च संयुक्तरीत्या एकां परियोजनां निर्वहति। कोविड् रोगनिर्णयः वेगेन अधिकव्ययं विना च कर्तुम् उपयुक्तम् उपकरणम् एकमासाभ्यन्तरे प्रवर्तनयोग्यं करिष्यतीति सि एस् ऐ आर् प्रतिनिधिभिः सूचितम्। कोविड् रोगनिर्णयस्य भागतया क्रियमाणस्य एलिस आन्टिबोटि परीक्षणस्य समानतया शरीरस्थस्य वैरल् आन्टिजनस्य प्रत्यभिज्ञानं अनेन नूतनोपकरणेन साध्यं भविष्यतीति परियोजनायाः नेतृभिः विशदीकृतम्। इमां परियोजनां प्रति  मैक्रोसोफ्ट् संस्थायाः भारतस्थस्य केन्द्रस्य आर्थिकः सहयोगः वर्तते।