OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 6, 2020

केरले पिधाने अधिकानि शैथिल्यानि ।
आराधनालयाः उद्घाट्यन्ते। 
किन्तु अवस्था रूक्षा ; जाग्रता पालनीया इति मुख्यमन्त्री। 
अनन्तपुरी > केरलस्य 'कोविड् १९ नियन्त्रणेषु' अधिकानि शैथिल्यानि उद्घोष्य राज्यसर्वकारः। केन्द्रप्रशासनस्य निर्देशान् आधारीकृत्य एव समाश्वासप्रक्रमाः उद्घुष्टाः।
   तदनुसृत्य आराधनालयाः कर्कशनियन्त्रणान् परिपाल्य उद्घाटितव्याः। शबरिगिर्यां दर्शनं 'वेर्च्वल्'पङ्क्तिद्वारा नियन्त्रिष्यति। आराधनालयेषु विहिताः सामान्यनिर्देशाः एवम् --
* सामान्यस्थानेषु इदानीमपि परिपालयिव्याः (मुखावरणं, वैयक्तिकदूरं, हस्तप्रक्षालनमित्यादिकं) निर्देशाः अवश्यं करणीयाः!
* ६५अधिकवयस्काः, दशन्यूनवयस्काः बालाः, गर्भवत्यः महिलाः ,प्रकटितरोगलक्षणाः इत्यादयः आराधनालयं न गन्तव्याः! 
* अन्नदानं , अर्चनाद्रव्यवितरणं स्पर्शनेन अनुग्रहः , प्रतिष्ठासु तथा विशुद्धग्रन्थेषु स्पर्शः इत्यादिकं न अनुमोदिताः! 
* स्पर्शनेन विना 'मामोदीसा' कार्या! 
   किन्तु रोगसंक्रमणे केरलस्य स्थितिर्रूक्षा वर्तत इति मुख्यमन्त्रिणा पिणरायिविजयेन निगदितम्। राज्ये प्रप्रथमतया प्रतिदिनरोगिणां संख्या अङ्कनत्रयमतीता। ह्यः १११ जनेषु कोविड् दृढीकृतम्। ५० विदेशात् ४८ इतरराज्येभ्यशचागताः सन्ति। सम्पर्केण १३ जनाः रोगबाधिताः। तेषु त्रयः स्वास्थ्यप्रवर्तकाः भवन्ति। 
    केरले अखिले रोगबाधिताः १६९९ , मरणानि १४, रोगमुक्ताः ७१२। इदानीं ९७३ रुग्णाः चिकित्सायां वर्तन्ते।