OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 7, 2020

विश्वे अधिकतया वेतनं स्वीक्रियमाणानां प्रमुखानां श्रेण्यां भारतस्य अक्षयकुमारः अपि।
     नवदहली> विश्वे अधिकतया वेतनं स्वीक्रियमाणानां प्रमुखानां श्रेण्यां  हिन्दीसिनेमाभिनेता अक्षयकुमारः अपि। अमेरिक्कस्य दूरदर्शनाभिनेत्री कैली जेन्नर् श्रेण्यां प्रथमस्थाने वर्तते। तस्याः प्रतिवर्षवेतनं ४४६१ कोटिरुप्यकाणि भवन्ति। श्रेण्याम् अक्षयकुमारस्य स्थानं द्विपञ्चाशत् भवति। तस्य वार्षिकवेतनं ३६६ कोटिरुप्यकाणि भवन्ति। श्रेण्यां स्थानं लब्धेषु एक एव भारतीयः भवति अक्षयकुमारः। २०२०तमस्य वर्षस्य फोब्स् मासिकायाः श्रेणी एव प्रकाशिता वर्तते। टेन्नीस् क्रीडकः रोजर् फेडरर्, पादकन्दुकक्रीडकौ क्रिस्ट्यानो रोणाल्डो लयणल् मेसि प्रभृतयः श्रेण्यामस्यां अग्रिमस्थानेषु वर्तन्ते।