OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 13, 2020

कोविड् - मुख्यमन्त्रिभिः सह प्रधानमन्त्री चर्चां करोति। 
नवदिल्ली > कोविड्व्यापनं, प्रतिरोधप्रवर्तनानि इत्यादिकमधिकृत्य प्रधानमन्त्री नरेन्द्रमोदी अस्यमासस्य १६,१७ दिनाङ्कयोः मुख्यमन्त्रिभिः सह चर्चां करिष्यति। दिनद्वये अपि सायं त्रिवादनात्परमेव चर्चा। षष्ठवारमेव कोविड्प्रतिसन्धिमधिकृत्य प्रधानमन्त्री 'वीडियो काण्फ्रन्स्' द्वारा चर्चाम् आयोजयति। 
  प्रथमे दिने पञ्चाब्, असमः, झार्खण्डः, उत्तराखण्डः इत्यादीनि उत्तरपूर्वस्थानि राज्यानि तथा केरलं च चर्चायां भागं वहन्ति। रोगव्यापनं रूक्षतया वर्तमानानि महाराष्ट्रं, तमिल्नाटु, दिल्ली, गुजरात् इत्यादिभिः राज्यैः सह द्वितीयदिने अवलोकनं करिष्यति।