OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 24, 2020

यू एन् वेदिकायां केरलाय समादरः। 
यू एन् संस्थायाः स्वास्थ्यविभागस्य उपवेशने के के शैलजा भाषणं करोति। 
अनन्तपुरी > कोविड् प्रतिरोधप्रवर्तनेषु केरलस्य प्रक्रमाः आदर्शपराः इति संयुक्तराष्ट्रसभायाः 'सामान्यसेवादिन'कार्यक्रमे प्रशंसितम्। कोविड् १९ महामारेः प्रतिरोधाय श्रेष्ठां सेवां   कृतवतां  समादर्तुमायोजिते कार्यक्रमे आसीत् केरलाय मुक्तकण्ठप्रशंसा। केरलं प्रतिनिधीभूय स्वास्थ्यमन्त्रिणी के के शैलजा दृश्यश्रव्यप्रणालिकया आयोजिते उपवेशने भागं कृतवती। 
  'कोविड्प्रतिरोधे केरलेन स्वीकृताः फलप्रदाः पदक्षेपाः' इत्यस्मिन् विषये के के शैलजा भाषणं कृतवती। कोविड्प्रतिरोधे 'निपानुभवाः' साह्यभूताः अभवन्निति तया उक्तम्। संक्रमणव्याधिनां काले  कालविलम्बः प्रवर्तनलाघवश्च न युज्यते इत्यनुभवपाठः लब्धः।
   एत्योपियायाः राष्ट्रपतिः सह्ले वर्क् स्यूडे, कोरियाराष्ट्रस्य गृहसुरक्षामन्त्री चिन् यङ् , विश्वस्वास्थ्यसंघटनस्य स्वास्थ्यसेनायाः निदेशकः जिं काम्प् बलः, इत्यादयः शैलजामहाभागया सह चर्चायां भागभागं कृतवन्तः।