OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 17, 2020

भारत-चीनसीमायां सङ्घर्षः - 'केणल्'पदीयः अभिव्याप्य २० भारतीयसैनिकानां वीरमृत्युः। 
सङ्घर्षबाधितमण्डलम्।
वीरमृत्युं गतः केणल् सन्तोषबाबुः। 
४३ चैनीयभटाः मृताः। 
भारत-चीनसङ्घर्षे जीवहानिः ४५संवत्सरेषु प्रथमतया। 
नवदिल्ली >  लडाकस्य गाल्वन् अधित्यकायां सोमवासरे रात्रौ चीनाबलेन सह संवृत्ते प्रतिद्वन्द्वे 'केणल्'पदस्थः अभिव्याप्य २० भारतीयसैनिकाः वीरमृत्युं प्राप्तवन्त इति भारतीयस्थलबलेन स्थिरीकृतम्। चीनस्य ४३ सैनिकाः नष्टप्राणाः कठिनतया आहताः वा संवृत्ताः इति शासनकारानुद्धृत्य ए एन् ऐ वार्ताहरसंस्थया निगदितम्। 
  सैनिकविवादं रम्यतया परिहर्तुं कमान्डर्' स्तरीयचर्चायां पुरोगम्यमानायामासीदयं सङ्घर्षः जातः।  न भुशुण्डिप्रयोगे , किन्तु पाषाणखण्डान् दण्डान चोपयुज्य शारीरिकाक्रमणे एव सैनिकानां मृत्युरभवदिति स्थलसेनया स्पष्टीकृतम्। १९७५ तः परं प्रथममेव ईदृशः रक्तरूषितः सङ्घर्षः संवृत्त इति सेनावृत्तैः विशदीकृतम्। 
  आन्ध्रराज्ये विजयवाडप्रान्तीयः भवति वीरमृत्युं प्राप्तवान् केणल् सन्तोष् बाबुः। गाल्वन्नधित्यकायां '१६ बीहार बट्टालियन्' नामकबलविभागस्य कमान्डिङ् अधिकारी आसीत् सः। तमाल्नाट् राज्यीयः हवील्दारः पलनि नामकः, झार्खण्डीयः भटः के के ओझा नामकश्च मृतेषु प्रत्यभिज्ञातौ। 
  पूर्वलडाकप्रदेशस्थेषु गाल्वन्नधित्यका, पाङ्गोङ् तटाकः, होट् स्प्रिङ् इत्यादिषु स्थानेषु मेय् ४ तः उभयोः राष्ट्रयोः सैनिकाः मिथः अनुवर्तमानः सङ्घर्षः सोमवासरे मूर्धन्यं प्राप्त आसीत्।