OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 29, 2020

भारते कोविड् रोगनिर्णणीतानां प्रतिदिनसंख्यायां वर्धनम्।
 कोविड् रोगीणां संख्या उपपञ्चलक्षं प्रविशति।
        नवदहली> भारते गतदिने कोविड् स्थितीकृतानां संख्यायां वर्धनमभवत्। गतदिने एव १९६१० जनेषु रोगः स्थितीकृतः। इयं संख्या तु भारते एतत्पर्यन्तं प्रतिदिनं कोविड् स्थितीकृतानां संख्यामपेक्षया अधिका भवति। कोविड् स्थितीकृत्य चिकित्सायां वर्तमानेषु ३८४ जनाः ह्यः मृताः। रोगबाधिताः प्रायः उपपञ्चलक्षं च भवन्ति। भारते एतावता १६४८७ जनाः कोविड् रोगेन मृताः, ३२१७७४ जनाः रोगमुक्ताः च अभवन्। अधुना २१०८८० जनाः कोविड् चिकित्सायां वर्तन्ते च।